खण्डः- ’क’
अपठित-अवबोधनम् (5 अङ्काः)
१- अधोलिखितम् अनुच्छेदं पठित्वा
प्रदत्तप्रश्नानाम् उत्तराणि लिखत-
मधुरभाषणम् एतादृशः गुणः
अस्ति, येन मानवः अखिलमपि जगत् वशीकर्तुं
शक्नोति। मधुरभाषिणं सर्वे प्रेम्णा विश्वासेन च अवलोकयन्ति। मिष्टभाषी
सर्वेषु स्निह्यति तस्मिन् च सर्वे स्निह्यन्ति। वाङ्माधुर्यात् प्रियतरं
वाक्पारुष्यात् च अप्रियतरम् अन्यत् किमपि नास्ति। मधुरभाषणेनैव जनाः कोकिलम् आद्रियन्ते
वाक्पारुष्यात् च काकः दूरीक्रियते। कोकिलस्य काकली मयूरस्य केकारवः च कं मुग्धं न
करोति? मधुरवाणी जनान् अलङ्करोति। सम्पूर्णे
संसारे मानवः एव एतादृशः प्राणी अस्ति यः स्ववाण्या जनान् वशीकर्तुं
शक्यते। कथितम् अपि-
“तृणानि भूमिरुदकं वाक् चतुर्थी
सुनृता ।
एतानि सद्गृहेषु नेच्छिद्यन्ते
कदाचन ।“
अर्थात्-श्रेष्ठानां
गृहात् आसनम्, जलम्, सत्ययुक्ता मधुरा च वाणी कदापि समाप्ताः न भवन्ति।
I-
एकपदेन उत्तरत- 2x1/2=1
(i)
सर्वेषु कः स्निह्यति?
(ii)
का जनान् अलङ्करोति?
II-
पूर्णवाक्येन उत्तरत- 2x1=2
(i)
कस्मात् काकः दूरीक्रियते।
(ii)
संसारे मानवः कीदृशः
प्राणी अस्ति?
III-
भाषिककार्यम्- 4x1/2=2
(i)
मयूरस्य .......... च कं
न मुग्धं करोति? अत्र वाक्ये ’कं मुग्धं’ पदयोः विशेषणं किम्?
क- मुग्धम् ख-
मुग्धः ग- कः घ-
कम्
(ii)
अस्मिन् अनुच्छेदे
’प्रियतरम्’ इयस्य विलोमपदं किं प्रयुक्तम् अस्ति?
क- अप्रियतरम् ख-
अन्यत् ग- मुग्धम् घ- कोकिलम्
(iii)
‘अवलोकयन्ति’ इति क्रियायाः कर्तृपदं किम्?
क- प्रेम्णा ख-
मधुरभाषिणम् ग- सर्वे घ-
भाषिणम्
(iv)
‘सम्पूर्णम्’ इत्यस्य पदस्य कः पर्यायः?
क- अखिलम् ख-
अखिलमपि ग- वाक् घ- जगत्
खण्डः ’ख’
रचनात्मक-कार्यम् (15अङ्काः)
१- स्वकक्षाध्यापकस्य विषये मित्रं प्रति
अधोलिखितं संकेताधारितं पत्रं समुचितं पदं चित्वा पूरयत- 10x1/2=5
परीक्षा भवनात्
तिथिः .........
प्रियमित्र।
i………….|
अत्र कुशलं तत्रास्तु। अस्मिन् ii……….. अहं मम कक्षाध्यापकस्य विषये iii…………| मम iv…….. एकः v………. अध्यापकः अस्ति। सः vi…….. पाठयति। vii……. निजविषये दक्षः अस्ति।
सः अतीव viii…….. अस्ति। सः प्रियं ix…….| परमात्मा तस्य आयुः दीर्घं कुर्यात्। x…….. नमः।
तव मित्रम्
क ख ग
सर्वेभ्यः, वदति, कुशलः, पत्रे, नमस्कारः, लिखामि, कक्षाध्यापकः, सः, संसकृतम्, विनम्रः
|
१- चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तैः पदैः
पंचवाक्येषु चित्रंवर्णनं कुरुत- 1x5=5
रेल(इंजनस्य)शक्तेः, चित्रमस्ति,प्राचीनतमं रूपं,प्रदर्शनार्थं वर्तते, धूम्ररेलयानस्य,एकः जनः,तत्प्रति संकेतयति,महत्त्वपूर्णं परिवहनम्
|
१- अधोलिखितानां वाक्यानां संस्कृतभाषायाम्
अनुवादं कुरुत- 5x1=5
क- पेड हमारे मित्र हैं।
ख- वे हमें प्राणवायु देते हैं।
ग- पेडों से वातावरण शुद्ध होता है।
घ- पेडों से हमे लकडी मिलती है।
ङ- पेडों से फल भी प्रप्त होते हैं।
खण्डः ग– अनुप्रयुक्तव्याकरणम्(२५
अङ्काः)
२- निम्नलिखितेषु वाक्येषु रेखाङ्कितपदानां
प्रकृतिप्रत्ययोः प्रकृति-प्रत्ययानां वा पदेषु
शुद्धं पदं/पदविच्छेदं चित्वा लिखत- 3x1=3
I-
त्वं पुराणं पठितुम्
इच्छति।
अ- पठि+तुम् ब- पठे+तुमुन् स- पठ्+तुमुन् द-पठि+तुमुन्
II-
सिंहं दृष्ट्वा
बालः त्रस्यति।
अ- द्रश्+क्त्वा ब- दृश्+क्त्वा स- दृष्+क्त्वा द- द्रक्ष+क्त्वा
III-
भक्तः शिवं सम्पूज्य
सुखं लभते।
अ- साम्+पूज्+ल्यप् ब- सिम्+पूज्+ल्यप् स- सम्+पूज्+ल्यप् द- सम्+पूज्+ल्य
३- वर्णविन्यासं कुरुत- 2x1/2=1
क- कपोतः= ........
ख- कोकिलः= .......
४- विकल्पेभ्यः शुद्धं उच्चारणस्थानं चित्वा लिखत- 2x1=2
I-
‘च’ वर्णस्य उच्चारणस्थानम्-
अ- तालुः ब- दन्तः स- मूर्धा द-ओष्ठः
II-
‘ऋ’ वर्णस्य उच्चारणस्थानम्-
अ- ओष्ठः ब- दन्तः स- मूर्धा द- तालुः
५- अधोलिखितेषु रेखाङ्कितपदेषु उचितरूपेण सन्धिं
विच्छेदं वा चित्वा लिखत- 4x1=4
I-
माता औषधालयम् गच्छति।
अ- औष+धालयम् ब- औषधा+लयम् स- औषध+आलयम् द- औषध्+लयम्
II-
अस्माभिः गुरुजनोपदेशाः
पालनीयाः।
अ- गुरु+जनोदेशाः ब- गुरु+नोपदेशाः स- गुरुजन+उपदेशाः द-गुरुजनोप+देशाः
III-
इदं पुस्तकं तवैव
अस्ति।
अ- तव+ऐव ब- तवे+व स-तवै+व द- तव+एव
IV-
कस्य+अयं गृहम् अस्ति?
अ- कस्यायं ब- कस्ययं स-कसयं द- कसायं
६- अधोलिखितेषु रेखाङ्कितपदेषु उचितरूपेण विभक्तिं
वचनं वा चित्वा लिखत- 6x1=6
I-
……….
वृक्षं आरोहति। (कपिः/कपी/कपिम्)
II-
वृक्षात् ........ पतन्ति। (पत्रं/पत्रेण/पत्राणि)
III-
......... कन्दुकेन क्रीडतः। (मित्रम्/मित्रैः/मित्रे)
IV-
......... हसतः। (शिष्यः/शिष्येषु/शिष्यौ)
V-
............ बाणेन हतो
बालिः। (रामं/रामेण/रामे)
VI-
रमेशः ...... गच्छति। (गृह/गृहात्/गृहं)
७- उचितं क्रियापदं चित्वा लिखत- 3x1=3
I-
उद्याने जनाः धूम्रपानं न
.........।
अ- करोति ब- करोसि स- कुरुथ द- कुर्वन्ति
II-
शिशू वाटिकायां पुष्पाणि.......।
अ- त्रोटयति ब- त्रोटयतः स- त्रोटयन्ति द- त्रोटय
III-
अहं श्वः गृहं .......|
अ- गच्छति ब- गमष्यामि स- गमष्याम द- गमिष्यामि
८- उचितं उपपद विभक्तिं चित्वा लिखत- 4x1=4
I-
……….
परितः वृक्षाः सन्ति।
अ- विद्यालयं ब- विद्यालयेन स- विद्यालय द- विद्यालयेषु
II-
………
सह सीता वनं अगच्छत्।
अ- रामं ब- रामेन स- रामेण द- रामे
III-
……….
मोदकं रोचते।
अ- बालकाय ब- बालकः स- बालकेषु द- बालकस्य
IV-
……….
स्वाहा।
अ- अग्निम् ब- अग्निः स- अग्नये द- अग्नी
९- रेखाङ्कितपदेषु उचितं उपसर्गं चित्वा लिखत – 4x1/2=2
(i)
अद्य वृष्टेः ‘सम्भावना’ अस्ति?
क- स ख-
सम्भ ग-
सम् घ-
सम्भा
(ii)
शत्रुः शिरे प्रहरति।
क- प्र ख-
हृ ग- परा घ- अप
(iii)
पाठः दुर्बोध्यः
वर्तते।
क- दु ख-
दुर् ग- य घ- दुरा
(iv)
अहं आजीवनं
भारतमातरं सेवे।
क- आज ख-
आ ग- आजी घ- आजीव
खण्डः घ– पठितावबोधनम्(३५ अङ्काः)
१०- अधोलिखितं
नाट्यांशं पठित्वा तदाधारितानां प्रश्नानां उत्तराणि विकल्पेभ्यः चित्वा
लिखत-
(ततः प्रविशति करतलाभ्यां
चक्षुषी मार्जयन्ती पञ्चवर्षदेशीया बालिका सोमप्रभा)
विमला – अये जागरिता!
त्वरस्व तावत्। परिहीयते विद्यालयगमनवेला।
सोमप्रभा – अम्ब! अद्य न
गमिष्यामि विद्यालयं।
विमला – (हस्तेन
सोमप्रभां गृहीत्वा) अये! किमेतत् कथयसि। विद्यालयस्तु गन्तव्यं एव प्रतिदिनम्।
(सोमप्रभायाः प्रस्थानम्)
श्वश्रूः – विमले! अयि
दुष्टे! कुत्र मृतासि? कियथः कालात् शब्दापयामि?
विमला – (सकरुणं निशम्य)
इयं मम श्वश्रूः सदैव मर्मघातिभिः कटुवचनैराक्षिपति माम्। (उच्चस्वरेण) अम्ब!
इयमागच्छामि। किं करणीयम्? (परिक्रामति)।
I-
एकपदेन उत्तरत- 2x1=2
(i)
सोमप्रभा कीदृशी बालिका अस्ति?
(ii)
का सदैव विमलां स्वमर्मघातिभिः कटुवचनैः आक्षिपति?
II-
पूर्णवाक्येन उत्तरत- 2x1-2
(i)
ततः कीदृशी बालिका
प्रविशति?
(ii)
का परिहीयते?
III-
भाषिककार्यम्- 4x1/2=2
(i)
’अद्य न गमिष्यामि विद्यालयम्।’अत्र क्रियापदं किम्?
क- अद्य ख- न ग-
गमिष्यामि घ- विद्यालयम्
(ii)
‘आगमिष्यामि’ इति
पदस्य विपर्ययपदं अत्र किं प्रयुक्तम्?
क-
अद्य ख- न ग-
गमिष्यामि घ- विद्यालयम्
(iii)
’इयं मम श्वश्रूः।’अत्र
’इयं’ पदं कस्मै प्रयुक्तम?
क-
विधे! ख- किमिदमाय ग- श्श्र्वै घ-
पुरुषाय
(iv)
’अद्य अहं न विद्यालयं
गमिष्यामि’ अत्र कर्तृपदं किम्?
क-
अद्य ख- अहं ग- न घ-
गमिष्यामि
११- निम्नलिखित श्लोकांशान् पठित्वा
तदाधारितप्रश्नानामुत्तराणि विकल्पेभ्यः चित्वा लिखत-
क्षणे-क्षणे
प्रवर्धते धनाय ह्रिंसता खलैः –
र्विलोप्यतेSतिनिर्दयं चजन्तुभिर्मनुष्यता।
विभाजितं जगद्
द्विधा निहन्यते च घातकै -
रतीव
दैन्यामागतास्ति साधुता मनुष्यता॥
(I)
एकपदेन उत्तरत- 2x1=2
(i)
क्षणे-क्षणे कस्मै
ह्रिंसता प्रवर्तते?
(ii)
का अतीव दैन्यमागतास्ति?
(II)
पूर्णवाक्येन उत्तरत- 2x1=2
(i)
घातकैः किं द्विधा
विभाजितम्?
(ii)
जन्तुभिः मनुष्यता किं
क्रियते?
(III)
भाषिककार्यम्- 4x1/2=2
(i)
‘हिंसा’ इत्यस्य
पदस्य पर्यायपदं गद्यांशे किं अस्ति?
क- क्षणे-क्षणे ख- ह्रिंसता ग- अस्ति घ-
जगति
(ii)
श्लोके ’प्रतिक्षणं’
इत्यस्य पदस्य स्थाने किं पदं प्रयुक्तम्?
क- क्षणे-क्षणे ख-ह्रिंसता ग- क्षण घ-क्षणम्
(iii)
‘’घातकैः’ इति पदे
का विभक्तिः?
क-
चतुर्थी ख- पञ्चमी ग- षष्ठी घ- तृतीया
(iv)
‘’दानवता’ इति
पदस्य विपर्ययपदं किम्?
क- मूढाः ख- मनुष्यता ग- मूढः घ-
मूर्खाणाम्
१२- अधोलिखितान् गद्यांशान् पठित्वा तदाधारितानां प्रश्नानां उत्तराणि विकल्पेभ्यः चित्वा लिखत-
अथ पित्रा ’तथा’ इति अभ्यनुग्न्यातःस जीमूतवाहनः कल्पतरुं उपगम्य उवाच- “देव!
त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः’ तन्ममैकं कामं पूरय। यथा
पृथ्वीमदरिद्रां पश्यामि , तथा करोतु देव” इति। एवं वादिनि जीमूतवाहने
“त्यक्तस्त्वया एषोSहं यतोSस्मि” इति वाक् तस्माद्
तरोरुद्भूत्।
क्षणेन च स कल्पतरुः दिवं समुत्पत्य भुवि तथा वसूनि अवर्षत् यथा न कोSपि दुर्गत आसीत्।
ततस्तस्य जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।
I-
एकपदेन उत्तरत- 2x1=2
(i)
कः कल्पतरुं उपगम्य उवाच्?
(ii)
क्षणेन स कल्पतरुः किम्
अवर्षत्?
(II)
पूर्णवाक्येन उत्तरत- 2x1=2
(i)
जीमूतवाहने एवं वादिनि
कीदृशी/का वाक् तस्मात् तरोः उद्भूत्?
(ii)
कथं सर्वत्र यशः प्रथितम्?
(III)
भाषिककार्यम्- 4x1/2=2
(i)
‘सुगत’ पदस्य
पर्यायपदं गद्यांशे किं अस्ति?
क-
दृष्ट्वा ख- दुर्गत ग- अस्ति घ-
जगति
(ii)
’उवाच’ इति क्रियापदस्य
कर्ता कः?
क- पित्रा ख- शोभते ग- जीमूतवाहनः घ-
अयं
(iii)
‘’पित्रा’ इति पदे
का विभक्तिः?
क-
चतुर्थी ख- तृतीया ग- षष्ठी घ- सप्तमी
(iv)
’ आकाशे’ इति पदस्य
विपर्ययपदं किम्?
क-
’भुवि ख-तथा ग-
मूढः घ-
मूर्खाणाम्
१३- रेखाङ्कितपदानि आधृत्य प्रश्ननिर्मांणं कुरुत – 5x1=5
क- अद्य विद्यालयं न गमिष्यामि।
ख- अनया दुष्टया चायभाजनानि त्रोटितानि।
ग- विमला आत्मत्राणाय प्रयतते।
घ- त्वं सङ्कटात् माम् उद्धृतवती।
ङ- त्वम् वेतनस्य गर्वम् उद्वहसि।
१४- निम्नलिखित श्लोकयोः अन्वयं मन्जूषायाः पदानि
चित्वा पूरयत- 8x1/2=4
क-
वृत्तं यत्नेन संरक्षेद्
वित्तमेति च याति च।
अक्षीणो वित्ततः
क्षीणो वृत्ततस्तु हतो हतः॥
ख-
प्रियवाक्यप्रदानेन सर्वे
तुष्यनि जन्तवः।
तस्माद् तदेव
वक्तव्यं वचने का दरिद्रता॥
अन्वयः- वृत्तं(i)....... संरक्षेद् वित्तं
तु जीवने (ii)........याति च।(यदि कोSपि) वित्ततः (iii)……..भवति तदा तस्य किमपि
नष्टं न भवति। किन्तु यदि कोSपि (iv)…….क्षीणः भवति तदा सः पुनः सम्मानं न प्राप्नोति।
सर्वे जन्तवः (i)……. प्रदानेन (ii)…… ,तस्मात्(iii)........एव (iv)……..वचने का दरिद्रता।
१५- अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारम् उचितं पर्यायपदं विकल्पेभ्यः चित्वा लिखत- 4x1=4
(i)
हिमालयः एकः पर्वतः
अस्ति।
क-
पित्रे ख- नगेन्द्रः ग- हस्ती घ- पितरि
(ii)
देवानां राजा इन्द्रः
वर्तते।
क-
शक्रः ख- प्रशंसितः ग- प्रसन्नः घ-
दुखितः
(iii)
अहं इच्छितम्
कार्यम् एव करोमि।
क-
अकोष्ठम् ख- गर्हितम् ग-
अभीष्टम् घ- न उत्तमम्
(iv)
शीतला वाणी जनानां
हृदयं तुष्यति।
क-
शरीरे ख-संसारे ग- वाक् घ-
मनसि
१६- अधोलिखितानि
वाक्यानि घटनाक्रमानुसारं पुनर्लिखत- 8x1/2=4
(i)
एकदा एकः तन्द्रालुः बालः
आसीत्।
(ii)
सः बालः विघ्नितमनोरथः
चिन्तितवान्- ’कथं अस्मिन् जगति प्रत्येकं जनाः स्व-स्वकार्येषु निमग्नाः सन्ति।
(iii)
हे मनुष्याणां मित्र
कुक्कुरः! अस्मिन् निदाघे तरुमूलेमया सह खेलिष्यसि?
(iv)
सः अगायत्- वयं हि
मधुरसंग्रहे व्यग्राः स्मः इति।
(v)
सः पुष्पोधानं व्रजन्तं
मधुकरं दृष्ट्वा तम् क्रीडाहेतोः आह्वयत्।
(vi)
अयि चटकपोत। मानुष्यस्य
मम मित्रं भविष्यसि किम्?
(vii)
ततः प्रभृति सः
विद्याभ्यासं कृत्वा वैदुषीं प्रथां सम्पत्तिं च अलभत।
(viii)
मम स्वामी पुत्रप्रीत्या
मां पोषयति अतः अहं तस्य सेवायाः भ्रष्टः न भविष्यामि।