सप्तम: पाठ:
प्रत्यभिज्ञानम्
भट:- जयतु महाराज:।
राजा – अपूर्व इव ते हर्षो
ब्रूहि केनासि विस्मित: ?
भट: -अश्रद्धेयं प्रियं
प्राप्तं सौभद्रो ग्रहणं गत:।
राजा – कथमिदानीं गृहीत: ?
भट: - रथमासाद्य निश्शङ्कं बाहुभ्याम् अवतारित:।
(प्रकाशम्) इत: इत: कुमार:।
अभिमन्यु: -भो: को नु खल्वेष:? येनभुजैकनियन्त्रितो
बलाधिकेनापि न पीडित: अस्मि।
बृहन्नला –इत इत: कुमार:
अभिमन्यु: -अये! अयमपर: क: विभात्युमावेषमिवाश्रितो हर:।
बृहन्नला- आर्य, अभिभाषणकौतूहलं मे महत्। वाचालयत्वेनमार्य:।
भीमसेन: -(अपवार्य) बाढ़म्
(प्रकाशम्) अभिमन्यो!
अभिमन्यु: -अभिमन्युर्नाम ?
भीमसेन: -रुष्यत्येष मया त्वमेवैनमभिभाषय।
बृहन्नला - अभिमन्यो !
अभिमन्यु: -कथं कथम्। अभिमन्युर्नामाहम्।भो:!
किमत्र विराटनगरे क्षत्रियवंशोद्भूता: नीचै: अपि नामभि: अभिभाष्यन्ते अथवा अहं शत्रुवशं गत:
अतएव तिरस्क्रियते।
बृहन्नला-अभिमन्यो! सुखमास्ते
ते जननी ?
अभिमन्यु:-कथं कथम्। जननी नाम?
किं भवान् मे पिता अथवा पितृव्य:? कथम् मां पितृवदाक्रम्य स्त्रीगतां कथां पृच्छसे?
बृहन्नला- अभिमन्यो! अपि कुशली
देवकीपुत्र: केशव:?
अभिमन्यु:-कथं कथम्। तत्रभवन्तमपि
नाम्ना। अथ किम् अथ किम्?
(उभौ परस्परमवलोकयत:)
अभिमन्यु:-कथमिदानीं सावग्यमिव
मां हस्यते?
बृहन्नला- न खलु किन्चित्।
पार्थं पितरमुद्दिश्य मातुलम् च
जनार्दनम्।
तरुण्स्य कृतास्त्रस्य युक्तो
युद्धपराजय:॥
{अन्वयः- पार्थं पितरं मातुलं च जनार्दनं| उद्दिश्यं तरुणस्य कृतास्त्रस्य
युद्धे पराजयः युक्तः?}
अभिमन्यु:- अलं
स्वच्छन्दप्रलापेन! अस्माकम् कुले आत्मस्तवं कर्तुमनुचितम्। रणभूमौ हतेषु शरान्
पश्य, मदृते अन्यत्
नाम न् भविष्यति।
बृहन्नला - एवं
वाक्यशौण्डीर्यम। किमर्थं तेन पदातिना गृहीतः?
अभिमन्यु:- अशस्त्रं मामभिगतः ।
पितरम् अर्जुनम् स्मरन् अहम् कथम् हन्याम्। अशस्त्रेषु मादृशाः न प्रहरन्ति। अतः
अशस्त्रोऽयं मां वञ्चयित्वा गृहीतवान्।
राजा : त्वर्यतां त्वर्यताम्
अभिमन्यु|
बृहन्नला : इत: इत: कुमारः| एष महाराजः
उपसर्पतु कुमार:|
अभिमन्यु: - आ:| कस्य महाराज:?
राजा – एह्येहि पुत्र! कथं न
माम अभिवादयसि? (आत्मगतम्) अहो! उत्सिक्तः खल्वयं क्षत्रियकुमार:| अहमस्य
दर्पप्रशमनं करोमि| (प्रकाशम्) अथ केनायं गृहीत: ?
भीमसेन: - महाराज! मया|
अभिमन्यु: -
अशस्त्रेणेत्यभिधीयताम्।
भीमसेन: - शान्तं पापम्| धनस्तु
दुर्बलैः एव गृह्यते। मम तु भुजौ एव प्रहरणम्।
अभिमन्यु: - मा तावद् भो:! किं
भवान् मध्यम तात: य: तस्य सदृशं वच: वदति|
राजा – पुत्र! कोऽयं मध्यमो
नाम?
अभिमन्यु:
- योक्त्रयित्वा जरासन्धं कण्ठश्लिष्टेन बाहुना।
असह्यं
कर्म् तत् कृत्वा नीत: कृष्णोऽतदर्हताम्॥
राजा –
न ते क्षेपेण रूष्यामि, रुष्यता भवता रमे।
किमुक्त्वा
नापराद्धोऽहं, कथम्
तिष्ठति यात्विति॥
{अन्वय:- कण्ठश्लिष्टेन बाहुना जरासन्धं योक्त्रयित्वा तत् असह्यं कर्म्
कृत्वा कृष्णः अतदर्हतां नीत:| ते क्षेपेण न रूष्यामि, रुष्यता भवता रमे| किम्
उक्त्वा अहं न अपराद्धः? कथम् तिष्ठति, यातु इति| }
अभिमन्यु:
यद्यहमनुग्राह्य: -
पादयो:
समुदाचार: क्रियतां निग्रहोचित:।
बाहुभ्याह्रतं
भीम: बाहुभ्यामेव नेष्यति ॥
(ततः
प्रविशत्युत्तर:)
उत्तर:
- तात! अभिवादये!
राजा-
आयुष्मान भव पुत्र| पूजिताः कृतकर्माणो योधपुरुषा:|
उत्तर:
- पुज्यतमस्य क्रियतां पूजा|
राजा-
पुत्र! कस्मै?
उत्तरः
इहात्रभवते धनंजयाय|
राजा-
कथं धनञ्जयायेति?
उत्तरः
– अथ किम्
श्मशानाद्धनुरादाय
तूणीराक्षयसायके।
नृपाभीष्मादयो
भग्ना वयम् च परिरक्षिता:॥
राजा –
ऐवमेतत्|
उत्तरः
– व्यपनयतु भवाञ्छङ्काम अयमेव अस्ति धनुर्धर: धनंजय:।
बृहन्नला-
यद्यहं अर्जुन: तर्हि अयम् भीमसेन्: अयं च राजा युधिष्ठिर:।
अभिमन्यु:
इहात्रभवन्तो मे पितर:। तेन खलु...
न
रुष्यन्ति मया क्षिप्ता हसन्तश्च क्षिपन्ति माम्।
दिष्टया
गोग्रहणं स्वन्त: पितरो येन दर्शिता:॥
( इति
क्रमेण सर्वान् प्रणमति, सर्वे च तम् आलिङ्गन्ति)
शब्दार्था:
जयतु- शिष्टाचारपूर्वकम् अभिवन्दम्, ब्रूहि - कथय ,
अपूर्व: - अविद्यमानपूर्व:
विस्मित: - आश्चर्यचकित:,
अश्रद्धेयम्-अविश्वसनीयम्, सौभद्र:-सुभद्राया: पुत्र:
आसाद्य - प्राप्य, निश्शङ्कम्-शङ्कया
रहितम्
बाहुभ्याम् - भुजाभ्याम्, विभाति - शोभते
हर: - शिव:, कौतुहलम्-
जिज्ञासा
वाचालयतु - वक्तुं प्रेरेपयतु
रुष्यति- क्रुद्ध: भवति
अपवार्य - दूरीकृत्य
नीचै:- सामान्यजनै:
तिरस्क्रियते - उपेक्ष्यते
सन्धियुक्तपदानि
प्रति +
अभिज्ञानम्=प्रत्यभिज्ञानम्
केन + अपि=केनापि
खलु + एष:= खल्वेष:
भुज + एक..=भुजैक..
बल + अधिकेन + अपि=बलाधिकेनापि
विभाति +
उमावेषम्=विभात्युमावेषम्
इव + आश्रित:=इवाश्रित:
वाचालयतु + एनम्=वाचालयत्वेनम्
अभिमन्यु: + नाम=अभिमन्युर्नाम
रुष्यति + एष=रुष्यत्येष
त्वमेव + एनम्=त्वमेवैनम्
अभ्यासप्रश्ना:
१.जयतु महाराज: इति क: वदति ?
२.क: ग्रहणं गत: ?
३.सुभद्राया: पुत्र: क: ?
४.अभिमन्यु: केन गृहीत: ?
५.बृहन्नलां दृष्ट्वा अभिमन्यु: किं चिन्तयति ?
सन्धिं/सन्धिविच्छेदे
१. --------- + अपि=केनापि
२. खलु + --------= खल्वेष:
३. ----------- + आश्रित:=इवाश्रित:
४. रुष्यति + एष= ----------
५. त्वमेव + ------------ = त्वमेवैनम्
निम्नलिखितवाक्यानि क: कं प्रति वदति
क: कं प्रति
१. जयतु महाराज:। --------------
-----------
२. कथम् इदानीं गृहीत:? --------------
-----------
३. सौभद्रो ग्रहणं गत:। ---------------
------------
४.रुष्यत्येष मया.......
--------------- -----------
अभिमन्यु: -अये! अयमपर: क: विभात्युमावेषमिवाश्रितो
हर:। (विभाति- शोभते)
(विभाति + उमावेषम्)
बृहन्नला- आर्य, अभिभाषणकौतूहलं मे महत्। वाचालयत्वेनमार्य:।
(वाचालयतु + एनम्) (कौतूहलं-जिज्ञासा)
भीमसेन: -(अपवार्य)भाढम् (प्रकाशम्)अभिमन्यो!
अभिमन्यु: -अभिमन्युर्नाम ?(अभिमनु: +
नाम)
भीमसेन: -रुष्यत्येष मया त्वमेवैनमभिभाषय।
(रुष्यति + एष) (त्वमेव + एनम्)
बृहन्नला - अभिमन्यो !
अभिमन्यु: -कथं कथम्। अभिमन्युर्नामाहम्।भो: किमत्र विराटनगरे
क्षत्रियवंशोद्भूता: नीचै: अपि नामभि: अभिभाष्यन्ते अथवा अहं शत्रुवशं गत: अतएव तिरस्क्रियते।
No comments:
Post a Comment